श्री वर्द्धमान भक्तामर स्तोत्रम्

Abhishek Jain
0
श्री वर्द्धमान भक्तामर स्तोत्रम् जैन धर्म के 24वें तीर्थंकर श्री महावीर स्वामी जी का चमत्कारिक स्तोत्र है ।

वर्द्धमान प्रभु महावीर स्वामी के बचपन का नाम था , जब प्रभु महावीर महारानी त्रिशला के गर्भ में थे तब राजा सिद्धार्थ के राज्य में अकूत धन सम्पदा , धन - धान्य में अपार वृद्धी हुई और चारो दिशाओं से मंगल समाचार आने लगे तो राजा ने भावी बालक का पुण्य जान लिया और उसका नाम 'वर्द्धमान' रखने का निश्चय किया ।

भक्तामर स्तोत्र जैन धर्म के प्रथम तीर्थंकर श्री ऋषभदेव भगवान कि स्तुती है , उसी भक्तामर स्तोत्र से प्रेरित होकर कर जैन साहित्य में 24वें तीर्थंकर महावीर प्रभु की स्तुती में 'श्री वर्द्धमान भक्तामर स्तोत्रम्' की रचना की गई ।

यह स्तोत्र महान चमत्कारिक , पापनाशक और सर्व मंगलदायक है , अतः शुद्ध भाव से प्रातः काल में इस स्तोत्र का पाठ अवश्य करें ।




श्री वर्द्धमान भक्तामर स्तोत्रम्

भक्तामरप्रवरमौलिकमणिव्रजेषु,
ज्योतिः प्रभूतसलिलेषु सरोवरेषु ।
चेतोऽलिमंजु विकसत्कमलायमानं,
श्रीवर्द्धमानचरणं शरणं ब्रजामि ॥१॥

आनन्द नन्दन वनं सवनं सुखाना,
सद्भावनं शिवपदस्य परं निदानम्।
संसारपारकरणं करणं गुणानां,
नाथ ! त्वदीयचरण-शरणं प्रपद्ये ॥२॥

सिदौषधं सकलसिद्विपदं समृद्धं,
शुद्धं विशुद्धसुखदं च गुणैः समिद्धम ।
ज्ञानप्रदं शरणदं विगताघवृन्द,
ध्यानास्पदं शिवपदं शिवदं प्रणौमि॥३॥

बालो विवेकविकलो निजवाल्भावा
दाकाशमानमपि कर्तुमिव प्रवृत्तः ।
ज्ञानाद्यनन्तगुणवर्णनकर्तुकामः,
कामं भवामि करुणाकर ! ते पुरस्तात् ॥ ४ ॥

स्पर्शो मणिर्नयति चेन्निजसन्निधानात्,
लोहं हिरण्यपदवीमिति नात्र चित्रम्
किन्तु त्वदीयमनुचिन्तनमेव दूरात्,
साम्यं तनोति तव सिद्धिपदे स्थितस्य ॥ ५ ॥

कुन्देन्दुहाररमणीयगुणान् जिनेन्द्र !
वक्तुं न पारयति कोऽपि कदापि लोके।
कःस्यात् समस्तभुवनस्थितजीवराशे,
रेकैकजीवगणनाकरणे समर्थः ?॥ ६ ॥

शकत्या विनाऽपि मुनिनाथ ! भवद्गुणानां,
गाने समुद्यतमतिर्नहि लज्जतोऽस्मि ।
मार्गेण येन करुडस्य गतिः प्रसिद्धा,
तेनैव किं न विहगस्य शिशुः प्रयाति ?॥ ७ ॥

त्वद्धाक्सुधासुरुचिरेव विभो ! बलान्मां,
वक्तुं प्रवर्त्तयति नाथ ! भवद्गुणानाम् ।
यद् वद्धते जलनिधिस्तरलैस्तरंगैस,
तत्रास्ति चन्द्रकिरणोदय एव हेतुः ॥ ८ ॥

अज्ञानमोहनिकरं भगवन् ! हृदिस्थं,
हर्तुं प्रभु प्रवचनं भवदीयमेव ।
गाढस्थिरं चिरतरं तिमिरं दरीस्थं,
हर्तुं प्रभुः सुरुचिरा रुचिरेव नान्यत् ॥ ९ ॥

वाक्यं प्रमाणनयरीतिगुणैर्विहीन,
निर्भूषणं यदपि वोधिद ! मामकीनम् ।
स्यादेव देवनरलोकहिताय युष्मत्संगाद् 
यथा भवति शुक्तिगतोदबिन्दुः ॥१०॥

आस्तां तव स्तुतिकथा मनसोऽप्यगम्या,
नामापि ते त्वयि परं कुरुतेऽनुरागम् ।
जम्बीरमस्तु खलु दूरतरेऽपि देव !
नामापि तस्य कुरुते रसनां रसालाम॥११॥

नानामणिप्रचुरकांचनरलरम्यम्,
स्वीयं प्रयच्छति पदं जनकः सुताय।
त्वद्ध्यानमेव जिनदेव ! पदं त्वदीयं,
भव्याय नित्यसुखदं प्रकटीकरोति ॥१२॥

ज्ञानाद्यनन्तगुणगौरवपूर्ण - सिन्धु,
वन्धुं भवन्तमपहाय परं क इच्छेत्।
प्राज्यं प्रलभ्य भुवनत्रितयस्य राज्यं,
कः कामयेत किल किंकरतामबुद्धि॥ १३॥

त्वद्गात्रतां परिणताः परमाणवोऽपि,
सर्वोत्तमा निरुपमाः सुषमा भवन्ति ।
लब्धवा शरण्य ! शरणं चरणं जनास्ते,
सिद्धा भवेयुरिते नाथ ! किमत्र चित्रम्॥१४॥

कश्चण्डकौशिकसमं भवसिन्धुपारं,
नेता सुदर्शनसमं च जगत्त्रयेऽपि ।
हे नाथ ! तत् कथय ते चरणाम्बुजस्य,
येनोपमा गुणलवेन घटेत लोके ॥१५॥

लोकोत्तरं सकलमंगलमोदकन्द,
स्यन्दं वचोऽमृतरसस्य जगत्यमन्दम् ।
स्वर्गापवर्गसुखदं भवदास्यचन्द्र,
दृष्टवा मुदं भजति भव्यचकोरवृन्दम् ॥ १६ ॥

भ्रान्त्याऽपि भद्रमुदितं भवदीयनाम,
सिद्धेर्विधायि भगवन्! सुकृतानि सूते।
अज्ञानतोपि पतितं सितखण्डखण्डं,
धत्ते मुखे मधुरिमाणमखण्डमेव ॥ १७ ॥

यो मस्तकं नमयते जिन ! तेंघ्रिपझें,
सर्वसद्धिनिचयः श्रयते तमेव ।
तीर्थंकरः शुभकरः प्रविभूय सोऽयं,
स्थानं प्रयाति परमं ध्रुवनित्यशुद्धम् ॥ १८॥

पृच्छामि नावमधुना मुनिनाथ ! नित्यं,
प्राप्ता त्वया तरणतारणता हि कस्मात् ।
सा नोत्तरं वितनुते त्वमपि प्रयातस्,
तद ब्रूहि कोऽस्ति परितोषकरस्तृतीयः ॥ १९॥

पीयूषमत्र निजजीवनसारहेतुं,
पीत्वाऽऽप्नुवन्ति मनुजास्तनुमात्रर क्षाम् ।
स्याद्धादसुन्दररुचं भवतस्तु वाचं,
पीत्वा प्रयान्ति सुतरामजरामरत्वम्॥ २० ॥

चक्री यथा विपुलचक्रबलादखण्डं,
भूमण्डलं प्रभुतया समलंक रोति ।
रत्नत्रयेण मुनिनाथ ! तथा पृथिव्यां,
जैनेन्द्र-शासनपरान् भविनो विधत्से ॥ २१ ॥

कालस्य मानमखिलं शशिभास्कराभ्यां,
पक्षद्वयेन गगने गमनं खगानाम् ।
तद्वद् भवानपि भवाद् भगवन् जनानां,
ज्ञानक्रियोभयवशादिह मुक्तिमाह॥ २२॥

ज्ञानादिकं हृदिगतं विषमं विषाक्तम्,
संसारकानन परिभ्रमणैकहेतुम् ।
मिथ्यात्वदोषमखिलं मलिनस्वरूपम्,
क्षिप्रं प्रणाशयति ते विमलः प्रभावः॥ २३॥

प्रामादिका विषयमोहवशं गता ये,
कर्त्तव्यमार्गविमुखाः कुमतिप्रसक्ताः।
अज्ञानिनो विषयघूर्णितमानसाश्च,
सन्मार्गमानयति तान् भवतः प्रभावः॥ २४ ॥

कल्पद्रु मानिव गुणांस्तव चन्द्रशुभ्रान्,
चिन्तामणीनिव समीहितकामपूर्णान् ।
ज्ञानादिकान् जनमनः परितोषहेतून्,
संस्मृत्य को न परितोषमुपैति भव्यः ॥ २५ ॥

चिन्तामणिः सुरतरुर्निधयस्तथैव,
तेभ्यः सुखं क्षणिकनश्वरमाप्नुवन्ति।
त्वत्सेविनो भविजना ध्रुवनित्यसौख्यं,
तस्मादितोऽप्यधिकतां समुपैषि नाथ! ॥२६॥

ध्वान्तंन याति निकटे रविमण्डलस्य,
चिन्तामणेश्च सविधे खलु दुःखलेशः।
रागादिदोषनिचया भगवंस्तथैव,
नो यान्ति किंचिदपि देव ! भवत्समीपे ॥ २७ ॥

शीतांशुमण्डल-जलामृतफेनपुंजे,
प्रोत्फुल्लितेप्सितसुपुष्पविशालकुंजमा॥
धर्म निरुप्य परमं खलु दुःखभंज,
नित्यं विकासयसिभव्यद ! भव्यकंजम् ॥ २८ ॥

दूरस्थितोऽपि सितरश्मिरलं स्वकीयैः,
शुभैर्विकासिकिरणैः सुविकासभावम् ।
अन्तर्गतं वितनुते किल कैरवाणां,
तद्वजिनेन्द्र! गुमराशिरयं जनानाम् ॥ २९ ॥

शीतांशुरश्मिनिक प्रसरानुषंगाद,
यच्चन्द्रकान्तमणयः परितो द्रवन्ति ।
तद्वत्त्वदीयमहिमश्रवणेन भव्याः,
शान्ताः प्रवृद्धकरुणा द्रविता भवन्ति ॥३०॥

दुःखप्रधानशिववर्जितहीयमाने,
काले सदा विषयजालमहाकराले ।
भव्या भवत्प्रवचनं शिवदं जिनेन्द्र,
पीत्वाऽऽत्मशान्तिमुपयान्ति नितान्तशुद्धाम् ॥ ३१ ॥

षट्कायनाथ ! मुनिनाथ ! गुणाधिनाथ !,
देवाधिनाथ! भविनाथ! शुभैकनाथ!।
अस्मान् प्रवोधय जिनाधिप ! दूरतोऽपि,
कि नो स्मितानि कुरुते कुमुदानि चन्द्रः॥ ३२॥

वृक्षोऽपि शोकरहितो भवदाश्रयेण,
जातस्ततः स यदशोक इति प्रसिद्धः।
भव्याः पुनर्जिन ! भवच्चरणाश्रयेण,
किं नामकर्मरहिता न भवन्त्यशोकाः ॥ ३३॥

सिंहासने मणिमये परिभासमानं,
नाथं निरीक्ष्य किल सन्दिहते विधिज्ञाः ।
इन्दुः किमेष ? नहि यत् स कलंकरंकुः,
किं वा रविन स तु चण्डतरप्रकाशः!॥ ३४ ॥

पुंजस्त्विषामितिपुरा निरणायिपश्चाद्,
व्यक्ताकृतिस्तनुधरोऽयमिति प्रबुद्धैः।
भव्यैः पुमानिति पुनः प्रशमस्वभावः,
कारुण्यराशिरिति वीरजिनः क्रमेण॥ ३५॥

देवैरचित्तकुसुमप्रकरस्य वृष्ट्या,
दिङ्मण्डलं सुरभितं भवतोऽतिशेषात् ।
स्यद्वादचारुरचनावचनावलीनां,
वृष्ट्या भवन्ति भविनः प्रशमे निमग्नाः ॥ ३५॥

लोकोत्तरा सकलजीववचोविलास
पीयूषवत्परिणता भवदीय-भाषा ।
सर्वद्धिसिद्धगुणवृद्धिविधानदक्षा,
साक्षात्तनोति कुशलं सकलं सुलक्षा ॥ ३७॥

गोक्षीर-नीर-शशि-कुन्द-तुषार-हार
शुक्लैर्वियद्विलसितैः शुभचामरौधैः ।
ध्यान सितं तव विभो ! विनिवेद्यते यत्,
सर्वज्ञता तदनु कर्मसमूलनाशः ॥ ३८ ॥

आखण्डलैरवनिमण्डलमागतैस्तैर,
भामण्डलं तब नुतै मुनिमण्डलेश्च ।
मोहान्धकारपरिहारंकरं जिनेन्द्रे !
तुल्यं कथं भवति तद् रविमण्डलेन॥ ३९॥

यत्कर्मवृन्दसुभटं विकटं विजेता,
लोकत्रय - प्रभुरसावतिशेषधारी ।
तस्माजिनेन्द्रसरणिं शरणीकुरुध्वं,
भव्या! इति ध्वनति खे किल दुन्दुभिस्ते ॥ ४० ॥

अत्युज्जवलं विजितशारदचन्द्रबिम्ब,
सम्मोदकं सकलमंगलमंजुकन्दम् ।
छत्रत्रयं तव निवेदयते जिनेन्द्र !
रत्नत्रयं प्रभुपदं शिवदं ददाति ॥ ४१ ॥

यत्र त्वदीयपदपंकजसन्निधानं,
सन्धानभूमिरसमाऽपि समा समन्तात्।
सर्वर्त्तवश्च सुखदा विलसन्ति लोका,
मन्ये नु कल्पतरुरेव भवत्पदाब्जम् ॥ ४२ ॥

दिव्यो ध्वनिर्गुणगणश्च यशोऽपि दिव्य,
दिव्याऽपि भवसमता प्रभुताऽपि दिव्या।
तस्माद् विभो ! क्व तुलना भुवनत्रयेऽपि,
ज्योतिर्गणाः किमिह भानुसमा विभान्ति॥ ४३ ॥

दिव्यं प्रभावमवलोक्य सुरादयस्ते,
पीयूषसारवचनानि निशम्य सम्यक् ।
आनन्दवारिधित रंगनिमग्नचित्तास,
त्वद्वर्णनाक्षमताया प्रणमन्ति भावात ॥ ४४ ॥

तुभ्यं नमः सकलमंगलकारकाय,
तुभ्यं नमः सकलनिर्वृतिदायकाय ।
तुभ्यं नमः सकलकर्मविनाशकाय,
तुभ्यं नमः सकलतत्त्वनिरूपकाय ॥ ४५ ॥

तुभ्यं नमः सकलजीवदयापराय,
तुभ्यं नमः शिवदशासनभास्कराय ।
तुभ्यं नमः सकललोकशुभंकराय,
तुभ्यं नमः सततमस्तु जिनेश्वराय ॥ ४६॥

रक्षः पिशाचनिकरैरदयोपसृष्टं,
दुर्वृत्त दुष्ट खलसृष्टविसृष्टमुष्टम् ।
दारिद्रयदुःखदजालविशालकष्टं,
नष्टं भवत्यखिलमाशु भवत्प्रभावात् ॥ ४७ ॥

चौरारि-सिंह-गज-पन्नग-दुष्ट-दाव
हिंस्रप्रचार - खलबन्धनदुर्ग-भूमौ।
सर्वं भयं भयकरं प्रणिहन्ति नाथ !
त्वद्ध्यानमात्रमखिलं भुनत्रयेऽस्मिन् ॥ ४८ ॥

सिंहोरग-प्रखरसूकर- हिस्रजालैर्,
व्यप्ताऽटवी विकटलुण्टक-कण्टनालैः।
सर्वर्तु-पुष्प-फल-पल्लवशोभमाना,
सानन्दनं भवति ते स्मरणाजिनेन्द्र!॥ ४९॥

घोरातिघोरविकटे सुभटेऽतिकष्टे
भ्रष्टे बले विविधदुःखशतैर्विशिष्टे ।
शस्त्राहतिप्रविचलद्रुधिरप्रवृद्धे,
युद्धे तनोति तव नाम विशुद्धशान्तिम् ॥ ५० ॥

सर्वर्द्धि-सिद्धिदमिदं परमं पवित्रं,
सतोत्रं चयः पठति वीरजिनेश्वरस्य।
चिन्तामणिः सुरतरुः सकलार्थसिद्धिः
संसेवितुम् तमनुकूलयितुम् समेति ॥ ५१ ॥

श्रीवर्द्धमान - शुभनामगुणानुबद्धां,
शुद्धां विशुद्धगुणपुष्पसुकीर्तिगन्धाम् ।
यो घासिलालरचितां स्तुतिमंजुमाला,
कण्ठे विभर्ति खलु तं समुपैति लक्ष्मीः ॥ ५२॥


एक टिप्पणी भेजें

0टिप्पणियाँ

कृपया कमेंट बॉक्स में कोई भी स्पैम लिंक न डालें।

एक टिप्पणी भेजें (0)